This is an outdated version published on 2026-10-01. Read the most recent version.

आर्षशिक्षायाः पुनरुज्जीवने स्वामिदयानन्दस्य योगदानम्

Authors

  • Dr. Mohit Kumar St. John's College, Agra Author

Keywords:

आर्षशिक्षा, स्वामिदयानन्दः, अनार्षसाहित्यम्, गुरुविरजानन्दः, गुरुकुलपद्धतिः, स्वतःप्रामाण्यम्, सत्यार्थप्रकाशः, वेदाध्ययनम्, ऋषिप्रणीतशास्त्रम्, काशीशास्त्रार्थः

Abstract

शोधसारः प्रस्तुतं शोधपत्रं भारतीयशिक्षापद्धत्याः, विशेषतश्च 'आर्षशिक्षायाः' पुनरुद्धारे महर्षिणा दयानन्दसरस्वतीमहोदयेन कृतस्य युगान्तरकारियोगदानस्य समग्रं विश्लेषणं करोति। स्वामिदयानन्दः स्वगुरुप्रज्ञाचक्षुर्विरजानन्दस्य प्रेरणया मनुष्यरचितस्य (अनार्षस्य) त्रुटिपूर्णग्रन्थस्य च त्यागं कृत्वा, सत्त्वगुणसम्पन्नैः त्रिकालदर्शिभिः ऋषिभिः प्रणीतस्य (आर्षस्य) साहित्यस्याध्ययने बलं दत्तवान्। इदं शोधपत्रं स्पष्टीकरोति यत् आर्षसाहित्यं रजस्तमोगुणाभ्यां मुक्तत्वात् निर्भ्रान्तं सत्यञ्च वर्तते, यदा तु अनार्षसाहित्ये मानवीय-अविद्यायाः इन्द्रियदोषाणाञ्च सम्भावना सर्वदा विद्यते। अस्मिन् लेखे स्वामिनः प्रसिद्धग्रन्थस्य 'सत्यार्थप्रकाशस्य' तृतीयसमुल्लासमाधृत्य विद्याप्राप्तेः चतुर्णां प्रमुखसोपानानां—श्रवण-मनन-निदिध्यासन-साक्षात्काराणां—विस्तृतं विवेचनं कृतमस्ति। एतदतिरिक्तं ज्ञानप्राप्त्यर्थम् 'अष्टाध्यायी' 'महाभाष्यम्' इत्यादि-आर्षव्याकरणग्रन्थानाम् आधारभूतत्वं स्वीकृतमस्ति। इदं पत्रम् अस्मिन् ऐतिहासिकतथ्येऽपि प्रकाशं निक्षिपति यत् स्वामिमहोदयेन शिक्षाक्षेत्रे व्याप्तस्य जन्माधारितजातिवादस्य लिङ्गभेदस्य च कठोरतया खण्डनं कृतम्। तेन स्पष्टीकृतं यत् कर्मगुणानामाधारेण स्त्रीशूद्रसहितस्य प्रत्येकस्य मनुष्यस्य वेदाध्ययने समानोऽधिकारो वर्तते। 'वेदाः स्वतः प्रमाणम्'—इमं सिद्धान्तं काशीशास्त्रार्थमाध्यमेन पुनः संस्थाप्य, दयानन्दमहोदयेन सम्पूर्णराष्ट्राय "वेदान् प्रति निवर्तध्वम्" इति महान् सन्देशः प्रदत्तः। निष्कर्षतः, शोधपत्रमिदं प्रमाणीकरोति यत् अज्ञानतायाः दूरीकरणाय राष्ट्रस्य च बौद्धिक-सामाजिकोत्थानाय महर्षिणा दयानन्देन प्रतिपादिता आर्षशिक्षापद्धतिरद्यापि नितान्तं प्रासङ्गिकी वर्तते।

Author Biography

  • Dr. Mohit Kumar, St. John's College, Agra

    NA

References

स्वामिदयानन्दस्य जीवनचरित्रम्, देवेन्द्रनाथकृतम् पृ.२३

स्वामिदयानन्दस्य जीवनचरित्रम्, देवेन्द्रनाथकृतम्, पृ.१७

गुरुविरजानन्द दण्डी जीवन एवं दर्शन, डा. रामप्रकाश

दयानन्द जीवन चरित्र, पृ.३४

चरकसंहिता, विमानस्थानम्, रोगभिषग्जितीयविमानम्, ८

चरकसंहिता, विमानस्थानम्, रोगभिषग्जितीयविमानम्, ३

सत्यार्थप्रकाशः, तृतीयसमुल्लासः, पृ.४४

महाभाष्यम्, पस्पशाह्निकः, पृ.२३

निरुक्त, १.१.२२

मनुस्मृतिः २.१६८

सत्यार्थप्रकाशः, तृतीयसमुल्लासः, पृ.३३

मनुस्मृतिः, १०/६५

शुक्लयजुर्वेदः, २२.२२

यजुर्वेदः २६.२

सत्यार्थप्रकाशः, तृतीयसमुल्लासः, पृ.३७

यजुर्वेदः, २२.३

ऋग्वेदः, १०/९/९

सत्यार्थप्रकाशः, तृतीयसमुल्लासः, पृ.४४

सत्यार्थप्रकाशः, तृतीयसमुल्लासः, पृ.४५

काशीशास्त्रार्थः, पृ.७

Published

2026-10-01

Versions

Data Availability Statement

NA

Issue

Section

Articles

How to Cite

आर्षशिक्षायाः पुनरुज्जीवने स्वामिदयानन्दस्य योगदानम्. (2026). St. John’s Journal of Literary Research, 1(1). https://sjcagrapublications.com/journal/article/view/14